केशिध्वज उवाच न प्रार्थितं त्वया कस्मादस्मद्राज्यमकण्टकम्। राज्यलाभाद्विना नान्यत्क्षत्रियाणामतिप्रियम्॥ १॥