श्रीपराशर उवाच अदित्यैवं स्तुतो विष्णु: प्रहस्याह सुरारणिम्*। माता देवि त्वमस्माकं प्रसीद वरदा भव॥ २४॥ अदितिरुवाच एवमस्तु तथेच्छा ते त्वमशेषैस्सुरासुरै:। अजेय: पुरुषव्याघ्र मर्त्यलोके भविष्यसि॥ २५॥