तस्यापि पुत्र: शान्तकर्णिस्तस्यापि पूर्णोत्सङ्गस्तत्पुत्रश्शातकर्णिस्तस्माच्चलम्बोदरस्तस्माच्च पिलकस्ततो मेघस्वातिस्तत: पटुमान्॥ ४५॥ ततश्चारिष्टकर्मा ततो हालाहल:॥ ४६॥ हालाहलात्पललकस्तत: पुलिन्दसेनस्तत: सुन्दरस्ततश्शातकर्णिस्ततश्शिवस्वातिस्ततश्च गोमतिपुत्रस्तत्पुत्रोऽलिमान्॥ ४७॥ तस्यापि शान्तकर्णिस्तत: शिवश्रितस्ततश्च शिवस्कन्धस्तस्मादपि यज्ञश्रीस्ततो द्वियज्ञस्तस्माच्चन्द्रश्री:॥ ४८॥ तस्मात्पुलोमाचि:॥ ४९॥