जयध्वजात्तालजङ्घ: पुत्रोऽभवत्॥ २२॥ तालजङ्घस्य तालजङ्घाख्यं पुत्रशतमासीत्॥ २३॥ एषां ज्येष्ठो वीतिहोत्रस्तथान्यो भरत:॥ २४॥