तस्य शिष्यास्तु ये पञ्च तेषां नामानि मे शृणु। मुद्गलो गोमुखश्चैव वात्स्यश्शालीय एव च। शरीर: पञ्चमश्चासीन्मैत्रेय सुमहामति:॥ २२॥