सर्वे च देवा मनवस्समस्ता- स्सप्तर्षयो ये मनुसूनवश्च। इन्द्रश्च योऽयं त्रिदशेशभूतो विष्णोरशेषास्तु विभूतयस्ता:॥ ४६॥