हिरण्यरोमा वेदश्रीरूर्ध्वबाहुस्तथापर:। वेदबाहुस्सुधामा च पर्जन्यश्च महामुनि:। एते सप्तर्षयो विप्र तत्रासन् रैवतेऽन्तरे॥ २२॥