श्रीपराशर उवाच एवमुक्त्वा सुरान्सर्वान् ब्रह्मा लोकपितामह:। क्षीरोदस्योत्तरं तीरं तैरेव सहितो ययौ॥ ३८॥