श्रीमैत्रेय उवाच भूषणास्त्रस्वरूपस्थं यच्चैतदखिलं जगत्। बिभर्त्ति भगवान्विष्णुस्तन्ममाख्यातुमर्हसि॥ ६६॥