हिरण्यकशिपुरुवाच नास्माभि: शक्यते हन्तुमसौ दुर्बुद्धिबालक:। मायां वेत्ति भवांस्तस्मान्माययैनं निषूदय॥ १५॥