श्रीपराशर उवाच तत: सोमस्य वचनाज्जगृहुस्ते प्रचेतस:। संहृत्य कोपं वृक्षेभ्य: पत्नीधर्मेण मारिषाम्॥ ७३ ॥