विवस्वान्सविता चैव मित्रो वरुण एव च। अंशुर्भगश्चातितेजा आदित्या द्वादश स्मृता:॥ १३१॥ चाक्षुषस्यान्तरे पूर्वमासन्ये तुषिता: सुरा:। वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृता:॥ १३२॥