पृथिव्युवाच स्त्रीवधे त्वं महापापं किं नरेन्द्र न पश्यसि। येन मां हन्तुमत्यर्थं प्रकरोषि नृपोद्यमम्॥ ७३ ॥