क्वचिद् गायति गायत्सु मदान्धालिष्वनुव्रतै: ।
उपगीयमानचरित: पथि सङ्कर्षणान्वित: ॥ १० ॥
अनुजल्पति जल्पन्तं कलवाक्यै: शुकं क्वचित् ।
क्वचित्सवल्गु कूजन्तमनुकूजति कोकिलम् ।
क्वचिच्च कालहंसानामनुकूजति कूजितम् ।
अभिनृत्यति नृत्यन्तं बर्हिणं हासयन् क्वचित् ॥ ११ ॥
मेघगम्भीरया वाचा नामभिर्दूरगान् पशून् ।
क्वचिदाह्वयति प्रीत्या गोगोपालमनोज्ञया ॥ १२ ॥ |