स बाणजालान्यपि तानि तानि मोघानि पश्यंस्त्रिदशारिराज:। विसिस्मिये लक्ष्मणलाघवेन पुनश्च बाणान् निशितान् मुमोच॥ १०२॥