कच्चिद् देवान् पितॄन् भृत्यान् गुरून् पितृसमानपि। वृद्धांश्च तात वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे॥ १३॥