धनूंष्यन्ये व्याक्षिपन्त ज्याश्चाप्यन्ये तथाक्षिपन्। दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीन्॥ ५॥