तेनाथ शब्देन विभीषणेन तथाभितप्तं बलमप्रधृष्यम्। कांदिग्भूतं रुधिरेणोक्षिताङ्गं विसंज्ञकल्पं च तदा विषण्णम्॥ ३४॥