दुर्योधन उवाच भो क्षत्रिया: शूरतमास्तु सर्वे क्षात्रे च धर्मे निरता: स्थ यूयम्। न युक्तरूपं भवतां समीपात् पलायनं कर्णमिह प्रहाय॥