युधामन्यु: प्रद्रुतं चित्रसेनं सहानीकस्त्वभ्ययाद् राजपुत्र:। विव्याध चैनं निशितै: पृषत्कै- र्व्यपेतभी: सप्तभिराशुमुक्तै:॥ ३७॥