विभ्राजते चातिमात्रं किरीटं विचित्रमेतच्च धनंजयस्य। दिवाकराभो मणिरेष दिव्यो विभ्राजते चैव किरीटसंस्थ:॥ ३१॥