धृतराष्ट्र उवाच यथा संशप्तकै: सार्धमर्जुनस्याभवद् रण:। अन्येषां च महीपानां पाण्डवैस्तद् ब्रवीहि मे॥ १॥