संजय उवाच तस्यां निशायां व्युष्टायां द्रोण: शस्त्रभृतां वर:। स्वान्यनीकानि सर्वाणि प्राक्रामद् व्यूहितुं तत:॥ १॥