हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत। छत्राणां चापविद्धानां चामराणां च संचयै:॥ ८॥ राशय: स्म व्यदृश्यन्त तत्र तत्र रणाजिरे।