दृष्ट्वा विमूढं हैडिम्बं सारथिस्तु रणाजिरात्। द्रौणे: सकाशात् सम्भ्रान्तस्त्वपनिन्ये त्वरान्वित:॥ ३९॥