संजय उवाच तवात्मजांस्तु पतितान् दृष्ट्वा कर्ण: प्रतापवान्। क्रोधेन महताऽऽविष्टो निर्विण्णोऽभूत् स जीवितात्॥ १॥