स वध्यमान: समरे शैनेयस्य शरोत्तमै:। प्राद्रवत् सहसा राजन् पुत्रो दुर्योधनस्तव॥ २४॥ आप्लुतश्च ततो यानं चित्रसेनस्य धन्विन:।