एवं संजल्पतस्तस्य बीभत्सो: शत्रुघातिन:॥ ५१॥ श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथप:। न चैनमब्रवीत् किंचिच्छुभं वा यदि वाशुभम्॥ ५२॥