तस्य चान्येऽपि दिङ्नागा बभूवुरनुयायिन:। अञ्जनो वामनश्चैव महापद्मश्च सुप्रभ:॥ ५७॥ त्रय एते महानागा राक्षसै: समधिष्ठिता:।