वैशम्पायन उवाच तस्य प्रयाणे यान्यासन् निमित्तानि महात्मन:। तानि मे शृणु सर्वाणि दैवान्यौत्पातिकानि च॥ ४॥