वासुदेव उवाच शृणु राजन् यथा वाक्यमुक्तो राजा सुयोधन:। मध्ये कुरूणां राजेन्द्र सभायां तन्निबोध मे॥ १४॥