निमेषान्तरमात्रेण भीष्मोऽन्यत् कार्मुकं रणे। समादाय महाबाहु: सज्यं चक्रे महारथ:। शरांश्च सुबहून् क्रुद्धो मुमोचाशु धनंजये॥ २८॥