वैशम्पायन उवाच दृष्ट्वा व्यूढान्यनीकानि कुरूणां कुरुनन्दन। तत्र वैराटिमामन्त्र्य पार्थो वचनमब्रवीत्॥ १॥