वैशम्पायन उवाच तस्यास्ता: कृपणा वाच: कृष्णाया: परिदेवितम्। श्रुत्वैवाभ्यापतद् भीम: शयनादविचारयन्॥ १५॥