द्रौपद्युवाच यदेतन्नर्तनागारं मत्स्यराजेन कारितम्। दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम्॥ १६॥