बृहदश्व उवाच सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमत:। आगत्य केशिनी सर्वं दमयन्त्यै न्यवेदयत्॥ १॥