बृहदश्व उवाच ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यत:। पुष्करेण हृतं राज्यं यच्चान्यद् वसु किंचन॥ १॥