स पूजयित्वा मधुहा यथावत् पार्थं च कृष्णां च पुरोहितं च। उवाच राजानमभिप्रशंसन् युधिष्ठिरं तत्र सहोपविश्य॥ १५॥