एतच्छ्रुत्वा ततो राजन् महाराजो भगीरथ:॥ २५॥ कैलासं पर्वतं गत्वा तोषयामास शंकरम्। तपस्तीव्रमुपागम्य कालयोगेन केनचित्॥ २६॥