दृष्ट्वा तथा पार्थिवपुत्रपौत्रां- स्तूष्णींभूतान् धृतराष्ट्रस्य पुत्र:। स्मयन्निवेदं वचनं बभाषे पाञ्चालराजस्य सुतां तदानीम्॥ २॥