वैशम्पायन उवाच उपोह्यमाने द्यूते तु राजान: सर्व एव ते। धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां तत:॥ १॥