युधिष्ठिर उवाच आहूतो न निवर्तेयमिति मे व्रतमाहितम्। विधिश्च बलवान् राजन् दिष्टस्यास्मि वशे स्थित:॥ १८॥