पावके विनिवृत्ते तु नीलो राजाभ्यगात् तदा। पावकस्याज्ञया चैनमर्चयामास पार्थिव:॥ ५८॥ सत्कारेण नरव्याघ्रं सहदेवं युधाम्पतिम्।