नन्दीश्वरश्च भगवान् महाकालस्तथैव च। शङ्कुकर्णमुखा: सर्वे दिव्या: पारिषदास्तथा॥ ३४॥ काष्ठ: कुटीमुखो दन्ती विजयश्च तपोऽधिक:। श्वेतश्च वृषभस्तत्र नर्दन्नास्ते महाबल:॥ ३५॥