वैशम्पायन उवाच इत्युक्त्वा धर्मराजस्तमर्जुनं प्रत्यपूजयत्। भीमसेन: कटाक्षेण वीक्षां चक्रे धनंजयम्॥ ६॥