वैशम्पायन उवाच स तु वाजी समुद्रान्तां पर्येत्य वसुधामिमाम्। निवृत्तोऽभिमुखो राजन् येन वारणसाह्वयम्॥ १॥