अलर्क उवाच इयं स्वादून् रसान् भुक्त्वा तानेव प्रतिगृध्यति। तस्माज्जिह्वां प्रति शरान् प्रतिमोक्ष्याम्यहं शितान्॥ १२॥