वैशम्पायन उवाच इत्युक्तवति वाक्यं तु कृष्णे देवकिनन्दने। भीष्मं शान्तनवं भूय: पर्यपृच्छद् युधिष्ठिर:॥ १॥