उपमन्युरुवाच एतान् दत्त्वा वरान् देवो वन्द्यमान: सुरर्षिभि:। स्तूयमानश्च विबुधैस्तत्रैवान्तरधीयत॥ ७२॥