एवं तदा श्रीरभिभाष्यमाणा देव्या समक्षं गरुडध्वजस्य। उवाच वाक्यं मधुराभिधानं मनोहरं चन्द्रमुखी प्रसन्ना॥ ५॥